SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति प्रस्तावना ॥४२॥ विभूषितं पोगशाखम् ॥ ४२ ॥ शुभशीलशीलनपरा अभवंस्तेषामिमाः सधर्मिण्यः । विजयसिरी-देवसिरी हरसिणिसंज्ञा यथासंख्यम् ॥ १४ ॥ एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः । सुगुरोः गुणगणसुगुरोः शुश्राव सुदेशनामेवम् ॥ १५ ॥ दान-शील-तपो-भावभेदाद्धर्मश्चतुर्विधः । श्रयणीयः सदा भव्यैर्भाव्यभद्रपदप्रदः ॥ १६ ॥ विषयजसुखमिच्छोर्गेहिनः क्वास्ति शीलं ? करणवशगतस्य स्यात्तपो वाऽपि कीदृक् ? । अनवरतमदभ्रारम्भिणो भावना किं ? तदिह नियतमेकं दानमेवास्य धर्मः ॥ १७ ॥ ज्ञाना-ऽभयो-पग्रहदानभेदात्तच्च त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकदीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ १८ ॥ कालानुभावान्मतिमान्यतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥ १९ ॥ एवं निशम्य सम्यक् ततश्च निजभुजसमर्जितधनेन । श्रीयोगशास्त्रवृत्तेः पुस्तकं लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया सन्नक्षत्रसिताम्बुजौघकलिते श्रीराजहंसाविह । अज्ञानप्रसरान्धकारविधुरे विश्वे प्रदीपोपमस्तावन्नन्दतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ।। २१ ॥ Jain Education Inte For Private & Personal use only W ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy