SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना स्वोपक्षवृत्तिविभूषित योगशाखम् ॥४०॥ अन्तभाग:"अस्तीह श्रेष्ठपर्वप्रचयपरिचितः माझ्दाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः साधुव्रातप्रणन्ता वरहुडिरिति सत्ख्यातिमान् नेमडोऽभूत् ॥१॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे ततस्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीः तथा नाइकिः ॥ २ ॥ आद्याया जिनचन्द्र इत्युनुदिनं सद्धर्मकर्मोद्यतः पुत्रश्वाहिणिसंज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं सचीर्थेषु शिवाय संघपतिरित्याख्यां सुधीलब्धवान् ॥ ३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध-भीमदेवौ । __पुत्री तथा धाहिणिनामिकाऽभूत् सर्वेऽपि जैनांहिसरोज गाः ॥ ४ ॥ श्री देवभद्रगणिपादसरोरुहालेभक्त्याऽऽनमद्विजयचन्द्रमुनीश्वरस्य । ___ देवेन्द्रसरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥ ५ ॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः । खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ॥ ६ ॥ Jain Education Intel For Private & Personal Use Only Mw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy