SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ H३९॥ साधुजनजनिततोपं निर्दोष पुस्तकावरमेतत् । तस्यात्मसुतस्य जगदेवस्य श्रेयसेऽलेखि ॥ २४ ॥ यद् दोषैरकलंकितं गुणगणेयुक्तं मनोहारिभिनित्याभ्यासवशेन निवृतिकरं दिव्योक्तसाधुक्रियम् । श्रीभूपालकुमारपालसहित श्री हेमचन्द्रप्रभोः कर्मव्याधिविधाधकं विजयतां तद् योगशास्त्रं सदा ॥ २५ ॥ सूर्याचन्द्रमसौ यावद् द्योतयतः भुवं रुचा । अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥ २६ ॥ छ । ॐ ॥ स्वस्ति श्रीविक्रमनृपतेः संवत् १२५१ वर्षे कार्तिक सुदि १२ शुक्रे रेवतिनक्षत्रे सिद्धयोगे महाराजश्री-भीमदेवविजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालंकारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमाने दर्भवतीस्थाने श्रीमालवंशीय श्रे० साभानंदनेन जगदानंदनेन निर्मलतमसम्यक्त्वधरेण श्रे० देवधरेण सकलधर्मकर्मावहितेन ठ० आभड-नरसिंहादिसतसहितेन निजपुत्रजगदेवश्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रबुद्ध पं० केशवसुत पं० वोसरिहस्तेनाशेषविशेषज्ञचेतश्चमत्कारकारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावकश्रीकुमारपालभूपालविधापितस्य श्रीहेमचन्द्रसूरिरचितस्य श्री योगशास्त्रस्य वृत्तिपुस्तकं लिखितमिति । मङ्गलं महाश्रीः । शुभं भवतु लेखकपाठकवाच[ का ]नामिति ॥ छ ॥ * ॥ छ ।" खं. प्रतिपरिचयः-क्रमाङ्कः १६१, पत्र १-३२३, आयाम-व्यासौ २९"४२” इंच, लेखन वर्ष १३०३ समीपकाले JainEducation Intel For Private & Personal use only a lww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy