SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ॥३८५॥ नरः स्मरपराधीनः खीकण्ठमवलम्बते । नात्मनो वेत्यसूनद्य श्वो वा कण्ठावलम्बिनः ॥११॥ स्त्रीणां भुजलताबन्धं बन्धुरं बुध्यते कुधीः । न कर्मबन्धनैर्बद्धमात्मानमनुशोचति ॥१२॥ धत्ते स्त्रीपाणिभिः स्पृष्टो हृष्टो रोमाञ्चकण्टकान् । स्मारयन्ति न कि तेऽस्य कूटशाल्मलिकण्टकान् ॥१३।। कुचकुम्भौ समालिङ्गय स्त्रियाः शेते सुखं जडः। विस्मृता नूनमेतस्य कुम्भीपाकोद्भवा व्यथा ॥१४॥ मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षणे क्षणे । एतन्मध्यं भवाम्भोधेरिति नैते विविश्चते ॥१५॥ धिगङ्गनानां त्रिवलीतरङ्गैहियते जनः । त्रिवलीछद्मना ह्येतन्ननु वैतरणीत्रयम् ॥१६॥ स्मरात मजति मनः पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि कि नेदं साम्याम्भसि मुदास्पदे ॥१७॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः। नराः संसारकारायां न पुनर्लोहशृङ्खलाम् ॥१८॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥१९॥ भजते करभोरूणामूनल्पमतिर्नरः । अनूरूक्रियमाणं तैः सद्गतौ स्वं न बुद्धयते ॥२०॥ स्त्रीणां पाहन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ॥२१॥ दर्शनात् स्पर्शनाच्छलेषाद् या हन्ति शमजीवितम् । हेयोग्रविषनागीव वनिता सा विवेकिभिः ॥२२॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी। निम्नगेव निम्नगतिवर्जनीया नितम्बिनी ॥२३॥ १ स्पृष्टो नरो ख. ॥ २ नैवं ख. च.॥ ॥३८५॥ Jain Education onar७ For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy