SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥३७॥ तो सर्वदेव-सामाख्यौ तत्कुलव्योममंडनम् । जज्ञाते ज्ञानमाहात्म्यौ चन्द्रार्काविव विश्रुतौ ॥ ५ ॥ एतयोः सोहिणिर्भग्नी भनकन्दर्पशासना । जिनशासनधरा जज्ञे सज्ज्ञानाम्भोजदीर्घिका ॥ ६ ॥ श्रेष्ठिनः सर्वदेवस्य पावनागः सुतोऽजनि । लक्ष्मीकुक्षिभवा शान्ता तस्य थामिणिरात्मजा ॥ ७ ॥ जाते सधर्मचारिण्यौ धर्मकर्मातिकर्मठे । साभाकस्य सदा भक्ते वीरी-वयजसंज्ञिते ॥ ८ ॥ वीरीकायाः सुते जाते जातिश्लाध्ये शमान्विते । सीता-जास्यौ जिनाधीशधर्माराधनतत्परे ॥ ९ ॥ सत्पुत्रस्तत्र सीताया आसदेवामिधोऽभवत् । ततो भूतौ सुतावाभू-शोभनदेवनामकौ ॥ १० ॥ अभूतां नन्दनौ जास्यास्तुवूटडि-यशोधरौ । जिंदा-यशःकुमाराख्यौ बभूवतुस्तयोः सुतौ ॥ ११ ॥ वयजाख्या तु तत्पत्नी पञ्चाऽमृत सुतोत्तमान् । कुंतीव पाण्डवान् पाण्डुयशःशुभितभूतलान् ॥ १२ ॥ तेषामाम्रप्रसादाख्य आयो देवधरस्ततः । रामदेवस्ततश्चांडू-यशोधवलसंज्ञितौ ॥ १३ ॥ पश्चाप्यद्भुतधर्मकर्मनिरताः पश्चापि पुण्याश्चिताः पश्चाप्युग्रभवप्रपञ्चविमुखाः पश्चापि सत्यप्रियाः । एते पञ्चमहाव्रतेकरुचयः पश्चापि शुद्धाशयाः । प्रापुः पञ्चजनौघमौलितिलकाः पश्चापि कीर्ति पराम् ॥ १४ ॥ अभूदानप्रसादस्य सजनी वरगेहिनी । ज्ञानविज्ञानयोः पात्रं तन्नः सोहडस्तयोः ॥ १५ ॥ ॥ ३७ ।। For Private & Personal Use Only Jain Education Intel Www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy