________________
३५ ।।
Jain Education Inte
कलिकाता मुद्रिते ग्रन्थे क ख ग घ ङ च इत्यादि संकेत बहवः पाठभेदा उल्लिखिताः, क. ख. इत्यादिसंकेतैः हस्तलिखितादर्शा विवक्षिता इति तु वयं न जानीमः, तथापि ते पाठभेदा अपि अस्माभिरस्मिन् ग्रन्थे क. ख. इत्यादिसंकेतैरेव टिप्पणेषु निर्दिशः, दृश्यतां पृ० २, ३, ७, ८, ३४ इत्यादि । यत्र तु अस्माभिर्मूले स्वीकृतः पाठः क. ख. आदिप्रतिभिरपि समर्थितस्तत्र विना पाठभेदं ' - क. ख. ' इत्याद्येव टिप्पणेषु लिखितम् दृश्यतां पृ. ३ टि. २, पृ. ५ टि. १ इत्यादि ।
"
खम्भात नगरे श्री शान्तिनाथजैनज्ञानाभाण्डागारे तालपत्रोपरि लिखितं प्रतिद्वयं वर्तते, तत्र एकस्य शां. इति संज्ञाऽस्माभिर्विहिता, अपरस्य तु खं इति संज्ञा विहिता । तत्र शां. प्रतिः वि. सं. १२५१ वर्षे [ श्री हेमचन्द्रसूरीश्वगणां स्वर्गवासात् २१ वर्षेषु गतेषु ] लिखिता । खं प्रतौ तु लेखनसंवत्सर निर्देशो यद्यपि न दृश्यते तथापि वि.सं. १३०३ आसन्ने कस्मिश्चिद् वर्षे सा लेखिता इति प्रतीयते, यतः खम्भातनगरे श्री शान्तिनाथ - जैनज्ञानभाण्डागार एव विद्यमानायाम् आचाराङ्गचूर्णः प्रतौ खं प्रतौ च एकरूपैव प्रशस्तिर्दृश्यते, अतो यैः खं. प्रतिर्लेखिता तैरेव आचाराङ्गचूर्णेरपि प्रतिलेखिता, आचाराङ्गचूर्णः प्रतौ वि. सं. १३०३ इति लेखन संवत्सरोल्लेखो दृश्यते, अतो योगशास्त्रस्य खं प्रतिरपि वि. सं. १३०३ आसने वर्षे लिखितेत्यनुमीयते । अनयोः शां. खं. प्रत्योः स्वरूपमीदृशं वर्तते -
For Private & Personal Use Only
29200000000000000
॥ ३५ ॥
www.jainelibrary.org