SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ३४ ॥ Jain Education International संचित् अस्य सवृत्तिकस्य योगशास्त्रस्य संशोधनं सम्पादनं च स्वीयच्छात्राणां सहकारेण विहितम्, तच्च चतुर्थप्रकाशस्य द्वाविंशतितमश्लोकपर्यन्तं 'कलिकाता ' नगरे विद्यमानया Asiatic Society of Bengal इत्यनया संस्थया Bibeiotheca indica मध्ये ईसवीयेषु 1907 1909, 1910, 1911 (?) वर्षेषु [ पृ. ७९२ पर्यन्तमेव ] प्रकाशितम् । अवशिष्टस्तु ग्रन्थस्तथा संस्थया प्रकाशितो न दृष्टो न वा श्रुतोऽस्माभिः । किन्तु श्रीमद्विजयधर्मसूरिशिष्याणां श्रीमद्विजयभक्तिमूरीणामुपदेशेन सम्पूर्णोऽप्ययं ग्रन्थो वि० सं० १९८२ वर्षे भावनगरस्थया जैनधर्मप्रसार कसभया प्रकाशितः अस्यैव च बाहुल्येन प्रचारः । कलिकाता - भावनगर प्रकाशित पुस्तके संशोधकैः संशोधनाय कृतेऽपि महति परिश्रमे, सन्ति खलु ताहशनि अनेकानि स्थलानि यत्र पाठशुद्धिरपेक्ष्यते । अतोऽस्य ग्रन्थस्य पुनः संशोधनाय प्रकाशनाय च जैनसाहित्य विकास मण्डलस्याध्यक्षै: ' श्रेष्ठिश्री अमृतलाल कालीदास ' इत्येभिर्महोदयैः खम्भात नगरे श्री शान्तिनाथजैनज्ञानभाण्डागारे विद्यमानं तालपत्रोपरि लिखितमतिप्राचीन मादर्शद्वयमधिगतम्, तैर्नियुक्तेन केनचित् पण्डितेन च तत्रत्याः पाठभेदा लिखिताः, प्राधान्येन एतान् पाठभेदानवलम्ब्यैवास्माभिः संशोधितः सम्पादितश्चायं ग्रन्थः । एतत् तालपत्रोपरि लिखितमादर्शद्वयमस्माभिरपि दृष्टं प्रथमप्रकाश पर्यन्तं परिशीलितं च । For Private & Personal Use Only 000000003 प्रस्तावना ॥ ३४ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy