SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ॥३५१ ।। Jain Education tional ર यावत्किञ्चिदात्तावत् ससीता-लक्ष्मणं पुरः । नेत्राभिगमं रामं साऽपश्यत्तरुतले स्थितम् ॥ ८२ ॥ निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ||८३ || स्वं रूपं चारु कृत्वा रन्तुं रामस्तयाऽर्थितः । हसन्नूचे सभार्योऽहमभायै भज लक्ष्मणम् ||८४|| तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीत् । आर्य गता त्वमार्येव तदलं वर्तियाऽनया ||८५॥ सा याच्ञाखण्डनात् पुत्रवधाच्च रुषिताऽधिकम् । आख्यद् गत्वा खरादीनां तत्कृतं तनयक्षयम् ||८६ ॥ विद्याधरसहस्रैस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः || ८७|| किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ||८|| गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाहूत्यै कुर्या इत्यन्वशात् स तम् ||८९ || रामाज्ञां प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनुः सखा । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् ॥ ९०॥ प्रवर्द्धमाने तद्युद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा ॥ ९१ ॥ आयातt दण्डकारण्ये मनुष्यौ राम-लक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते यामेयं यमगोचरम् ||१२|| श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्द्धं युद्धयमानोऽस्ति सम्प्रति ॥ ९३॥ कनिष्ठभ्रातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥ ९४ ॥ १ त्रिषष्टि० ७ । ५ । ४१०-४३२ ॥ २ तनुज खं. ॥ ३ धनुःसखः - शां त्रिषष्टि० ७।५।४१५ ।। For Private & Personal Use Only 10 ॥३५१ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy