SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष द्वितीयः वृत्ति विभूषितं योगशास्त्रम् प्रकाश: श्लोकः ९९ ॥३५०॥ ॥३५०॥ ससीतालक्ष्मणो रामः सद्योऽगादण्डकावनम् । पञ्चवटयाश्रमे चावतस्थेऽसौ सत्यसङ्गरः ॥६९॥ तत्रायातौ चारणी राघवाभ्यां नमस्कृतौ । सीताऽऽन,तिथीभूतौ श्रद्धालुः शुद्धभिक्षया । ७०॥ ततो गन्धोदकैर्वृष्टिरमरैर्विदधे तदा । तद्गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ॥७१।। तौ मुनी देशनां तत्र चक्रतुः स व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ॥७२॥ तस्थुपस्तत्र रामस्य फलाद्यर्थ बहिर्गतः । ददर्श लक्ष्मणः खड्गमग्रहीञ्च कुतूहलात् ॥७३॥ तत्तीक्ष्णत्वपरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्णस्थां वंशजाली नाललावं लुलाव च ॥७४।। वंशजालान्तरस्थस्य कृत्तं कस्यापि देहिनः । अथै मौलिकमलं सोऽपश्यत् पतितं पुरः ॥७५।। अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया। अमुना कर्मणा धिग्मामित्यात्मानं निनिन्द सः ॥७६।। गत्वा च रामभद्राय तदशेषमचीकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ।।७७|| असावसिः सूर्यहासः साधकोऽस्य त्वया हतः। अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥७८॥ अत्रान्तरे दशग्रीवस्वसा चन्द्रणखाभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम् ॥७९।। क्वासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ । अपश्यलक्ष्मणस्यांहिन्यासपक्तिं मनोहराम् ।।८।। मम मनुहतोऽनेन यस्येयं पदपद्धतिः। पदपङ्क्तिपथेनैव ततश्चन्द्रणखाययौ ।।८१॥ १ 'तस्थाते सत्यसङ्गरौ खं. ॥ २ व्यबुद्धयत ख. च. ॥ ३ नललावं-शां. खं. । त्रिषष्टिः ७।५ । ३८७-३९८ ।। 10 Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy