________________
॥३४९॥
कौशल्या सुपुवे रामं कैकेयी भरतं सुतम् । सुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाभिधा ॥५७॥ राम-लक्ष्मण-भरत-शत्रुघ्नास्तस्य रेजिरे । चत्वारः सूनवो दन्ता इव त्रिदशदन्तिनः ॥५८॥ जनकस्य सुतां सीतां भामण्डलसहोदराम् । कार्मुकारोपणपणां रामभद्र उपायत ।।५९।। जिनेन्द्रबिम्बस्नपनजलं मङ्गलहेतवे । चतसृणां च राज्ञीनां नृपः प्रेषयदन्यदा ॥६॥ तत्तोयमागतं पश्चादिति रोषमुपेयुषीम् । अनुनेतुं स्वयं राज्ञी सुमित्रामगमन्नृपः ॥६१।। घण्टान्तालिकालोलदशनं चलिताननम् । श्वेतसर्वाङ्गरोमाणं भ्ररोमच्छन्नलोचनम् ॥६२॥ पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः ॥६३॥ तं दृष्ट्वाऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥६४॥ व्रतं जिघृक्षुः स ततो राज्ये स्थापयितुं निजे । अह्वायाह्वाययामास तनयो राम लक्ष्मणौ ॥६५॥ भरतस्य जनन्याऽथ केकेय्या मन्थरागिरा। वरी प्राकप्रतिपन्नौ स याचितः सत्यसङ्गरः ॥६६॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्न स्थिरो राज्यं भरताय समार्पयत् ।।६७॥
चतुर्दशसमा यावद्वनवासाय चादिशत् । ससीता-लक्ष्मणं रामं वरेणान्येन चार्थितः ।।६८॥ १ कौसल्या खं. । एवमग्रेऽपि। २ -ख. च. ड.। 'दरीम् शां. खं. मु.॥ ३°ोलिका खं. ४ चार्थितम् खं. ॥
॥३४९॥
Jain Education Intel
For Private & Personal Use Only
i
ww.jainelibrary.org