SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ९३ HIરૂ૪૮ ॥३४८॥ 5 हत्वा चन्द्रोदरं तत्र तद्राज्यं स्वां च सोदराम् । सोऽदात् खराय त्रिशिरोदूषणज्यायसे ततः ॥४४॥ चन्द्रोदरस्य निःशेष खरः खरवलोऽग्रहीत । एका तु गुर्विणी रानी प्रणश्य क्वचिदप्यगात ॥४५॥ ततः पाताललङ्कातो लङ्कां लङ्कापतिर्ययो । तत्र निष्कण्टकं राज्यं चक्रे विष्टपकण्टकः ॥४६॥ सोऽन्येयुः पुष्पकारूढः क्रीडयेतस्ततो भ्रमन् । मरुत्तभूपप्रारब्धमीक्षाश्चक्रे महामखम् ॥४७। ततो विमानादुत्तीर्णो दशास्यस्तदिदृक्षया । आनर्चे भूभुजा तेन पाद्यसिंहासनादिना ॥४८॥ ततो मरुत्तभूपालं जगादैवं दशाननः । अरे किमेष क्रियते नरकाभिमुख़र्मखः ॥४९॥ धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञखिजगद्धितः । पशुहिंसात्मकाद्यज्ञात् स कथं नाम जायते ॥५०॥ लोकद्वयारि तयज्ञ मा काश्चित करिष्यसि । मद्गुप्ताविह ते वासः परत्र नरके पुनः ॥५१।। विससर्ज मखं सद्यो मरुत्तनृपतिस्ततः । अलङ्घया रावणाज्ञा हि विश्वस्यापि भयङ्कग ॥५२॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः । ततोऽगाचैत्ययात्रार्थ सुमेर्वष्टापदादिषु ॥५३।। विधाय यात्रा चैत्येषु कृत्रिमाकृत्रिमेषु सः । आजगाम निजं धाम पुनरेव दशाननः ॥५४॥ इतश्वासीदयोध्यायां पुर्यामेकमहारथः । राजा दशरथो नाम धाम निःसीमसम्पदाम् । ५५।। पत्न्यः कौशल्या-कैकेयी सुमित्रा-सुप्रभाभिधाः। प्रियाश्चतस्रस्तस्यासन् मूर्ता इव दिशां श्रियः ॥५६॥ १ राज्यं स्वां च सहोदरीम् ख. च.॥ २ भयंकरी शां. खं. ॥ Jain Education Inten For Private & Personal Use Only Jw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy