SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ||३४७|| ततश्चकाङ्गविजयाकासिणाविन्द्र-रावणी । सैन्यान्यपास्याऽयुध्येतां द्वन्द्वयुद्धेन दुर्द्धरौ ॥३१॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुगविव । ३२॥ रावणिः किमधोऽथेन्द्र ऊर्ध्वमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोर्यकिर्वेगाद्विपरिवर्तिनोः ॥३३॥ विजयश्रीः क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधाद् भीतेगेभयोरपि भीमयोः ॥३४॥ असौ मशक इत्यस्थाद्यावद् गर्वेण वज्रभित् । तावत् सर्वोजसा मेघनादस्तं समुपाद्रवत् ॥३५॥ पातयिन्का झगित्येव तं बबन्ध दशास्यसः । जिगीषूणां जये हेतुः प्रथमो ह्याशुकारिता ॥३६॥ मेघनादः सिंहनादैर्नादयन् रोदसी अपि । पितुः समर्पयामास मूर्त जयमिवाथ तम् ॥३७॥ प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत् । द्वयं विधत्ते हि बली निहन्त्यपि वहत्यपि ॥३८॥ सोमो दण्डधरः पाशी कुवेरश्च समेत्य ते। दशास्यमिन्द्रग्रहणात् क्रद्धा रुरुधिरे ततः ॥३९॥ जितकाशी दशास्योऽपि भूत्वोत्साहाच्चतर्गणः। योधयामास संग्रामचतुरश्चतुरोऽपि तान् । ४०॥ सोऽभासीदण्डिनो दण्डं चुक्षोद गदिनो गदाम् । पाशिनोवोटयत् पाशान् धनुः सोमस्य चाच्छिदत् ॥४१।। अपातयत् प्रहारस्तान महेभः कलभानिव । अग्रहीद्रावणो बद्भवा वैरिविद्रावणः क्षणात् ॥४२॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललङ्कां लङ्केशो विजेतुमगमत् ततः ॥४३।। १ ममक-शां. । समक-खं.॥ २'बाग्रत:-च. ॥ ३ ग्रहणक्रुधा -खं.॥ ॥३४७|| Jain Education in a For Private & Personal use only C ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy