________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ९९ ॥३४४ा
॥३४॥
विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरसया ।
कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥१९॥ परस्त्रीविषये रमणाभावेऽपि रिंसामात्रेण हेतुना, दशकन्धरो रावणो नरकं प्राप इति पारलौकिकं फलम् ।
ऐहिकमाह-कृत्वा कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतः, न तेन, तथापि तदीयपरदाररिरंसापूर्वकत्वादिभिस्तत्त्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्यं भवेदित्याह-विक्रमाक्रान्तविश्वोऽपि, न हि दशकन्धरादन्यो बलवान् , यो विक्रमेण विश्वमप्याक्रान्तवान् सोऽपि यद्यनर्थमश्नुते तदा परस्य का मात्रेति ॥९९॥
अयं चार्थः सम्प्रदायगम्यः। स चायम्अस्ति त्रिकूटशिरसि शिरोमणिरिव क्षितेः । रक्षोद्वीपे हिरण्याङ्का लङ्केति प्रथिता पुरी ॥१॥ विद्याधरनृपस्तस्यां पुलस्त्यकुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥२॥ अभूतां भ्रातरौ तस्य निःसीमस्थामशोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्ण-विभीषणौ ॥३॥
देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् । गृहे नवमहारत्नस्रजं सोऽपश्यदन्यदा ॥४॥ १ "त्वात् तत्कृत-शां. खं.॥ २ तदपरस्य खं. ॥ ३ मशालिनी ख. च.॥
Jain Education Inter
For Private & Personal Use Only
Paw.jainelibrary.org