________________
||३४३॥
Jain Education
सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् ।
मृतश्च नरकं घोरं लभते पारदारिकः ||९७॥
सर्वधनापहारं रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिः, तस्य च्छिदां छेदं लभत इतीहलो कविरोधः । मृतश्च नरकं घोरं लभते इति परलोक विरोधः । परदारान् गच्छतीति पारदारिकः ॥ ९७|| उपपत्तिपूर्व परस्त्रीगमनप्रतिषेधमाह
-------
स्वदाररक्षणे यत्नं विदधानो निरन्तरम् ।
जानन्नपि जनो दुःखं परदारान् कथं व्रजेत् ॥९८॥
जानन्नपि अनुभवमपि दुःखं मनः पीडां परदारप्रसङ्गे, तस्य दाराः परेषां परदाराः, अतः स्वदारप्रसक्तेषु परेषु दुःखमनुभवत्येव । अत्र हेतुमाह - स्वदाररक्षणे स्वकलत्ररक्षणे, यत्नमादरं, भित्ति-वरण्डक- प्राकार प्राहरिकादिभिर्विदधानः कुर्वन्, निरन्तरं दिवानिशं स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् १ ॥९८ ॥
आस्तां परस्त्रीषु रमणं, रमणेच्छाऽपि महतेऽनर्थायेति आह
१ प्रसङ्गे परदाराः परेषां दाराः परदाराः - मु. ॥
२नुमानेन शां. खं. ॥
For Private & Personal Use Only
20000 DEU CHOCODIIDII
10
।।३४३||
www.jainelibrary.org