________________
द्वितीय:
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम् ॥३४२।।
प्रकाश: श्लोकः ९६ ॥३४२॥
जातोऽयमित उपसर्पति' इति व्याकुलचित्तस्य दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव ? पशोरिव वध्यस्य, उपसूनं सूनासमीपे ॥९॥ तस्मात्
प्राणसन्देहजननं परमं वैरकारणम् ।
लोकढयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥९६।। परस्त्रियां गमनं सम्भोगस्तत्त्यजेत् , प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं, परस्त्रीपु प्रसक्तस्य हि प्रायेण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् , यदाह
____ "बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः" [ ] इति । लोकद्वयमिहलोक-परलोकलक्षणं, तस्य विरुद्धम् , प्राणसन्देहजननत्वाद्वैरकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्रयं विशेषणद्वारेण ॥१६॥
लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयति१ ज्ञातोऽहमिति उप शां. मु.॥ २ दुस्थि ख.॥ ३ गस्तं त्यजेत् खं. ॥ ४ परस्त्रीप्रसक्तस्य खं. क. ग. ।।
Jain Education Inter
For Private & Personal use only
w.jainelibrary.org