________________
॥३४॥
सर्वपापानां मायामृषावादादीनाम् , हिशब्दो यस्मादर्थे, यस्मात् स्वदारानपि नासक्त्या सेवन्ते उपासकाः, ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥१३॥ परस्त्रीणां पापाकरत्वमेव दर्शयति
स्वपतिं या परित्यज्य निस्त्रपोपपतिं भजेत् ।
तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ॥९॥ तस्यां क्षणिकचित्तायां चलचित्तायामन्ययोषिति, को विश्रम्भः ? को विश्वासः ? न कश्चिदित्यर्थः । विश्रम्भाधीनं च सुखम् , तदपि नास्तीत्यर्थः । या किम् ? या स्वपति देवतारूपं भर्तृदेवता हि स्त्रियः' इति श्रुतेः, परित्यज्य पाणिगृहीत्यपि त्यक्त्वा, नित्रपा लज्जारहिता, त्रपा हि भूषणं स्त्रीणाम् ; उपपति पत्यन्तरं भजेत् ।।९४।। इदानी परस्त्रीप्रसक्तोऽनुशिष्यते. भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् ।
रतिर्न युज्यते कर्तुमुपसूनं पशोरिव ॥९५॥ परस्त्रियां रतिः प्रीतिः कर्तुं न युज्यते, भीरोः पति-राजादिभीतस्य, अत एवाकुलचित्तस्य 'अनेन दृष्टोऽनेन १ व्रजेत् शां. खं. ॥ २ विस्रम्भः खं.। एवमग्रेऽपि ॥ ३ चलितचित्ता मु.॥४ परसक्तो-खं. ॥५ शूनं-मु.। एषमग्रेऽपि ।।
॥३४॥
Jain Education Intem
For Private & Personal use only
w.jainelibrary.org