________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्रीकः ९३ ॥३४॥
॥३४०॥
वेश्यावश्यः पुमान्न देवादीन् मन्यते, कुतः ? असत्सङ्गरतिनित्यं, असद्भिविटादिभिः सङ्गोऽसत्सङ्गः, तत्र रतिर्यस्य । वेश्यावश्यस्य हि सुलभा एवासत्सङ्गाः ॥११॥ तथा
कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाझ्या ।
तन्वन्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥१२॥ __ कृष्टिनः कुष्ठिगेगिणोऽप्यत्यन्तमनुपादेयान् , स्मरसमान् कन्दर्पतुल्यान् , धनकाझ्या हेतुभूतया पश्यन्ती, महत्या प्रतिपच्या प्रतिपादयन्तीम्, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाद्धनावाप्तिरिति तन्वन्ती विस्तारयन्ती कृत्रिममुपचरितं स्नेहं प्रेम, परमार्थतस्तु निःस्नेहां गणिकां वेश्यां त्यजेत् । एवं तावन् स्वदारसन्तुष्टस्य पण्याङ्गनागमने दोषाः प्रतिपादितोः ॥१२॥ इदानीं परदारगमनदोषानाह
नाऽऽसक्त्या सेवनीया हि स्वदारा अप्युपासकैः ।
आकरः सर्वपापानां किं पुनः परयोषितः ॥१३॥ " सर्वविरतिलालसः खलु देशविरतिपरिणामः" [ ] इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरप्रतिषिद्धाः स्वदारा अप्यासक्त्या गर्द्धन न सेवनीयाः, किं पुनः परयोषितः १ ता अत्यन्तमसेवनीया इत्यर्थः । यतः आकरः खानिः
For'Private & Personal Use Only
a
Jain Education Intel
w.jainelibrary.org.