________________
॥३३९।।
रया मिश्रं व्याप्त, सुरापाणप्रसक्तत्वात् । अनेकविर्बहुभिविटेरित्यर्थः, चुम्बितमास्वादितम् , प्रायो विटासक्तत्वात् । एवंविधं वेश्यानां वदनं कश्चुम्बेत् ? न कश्चिचेतनश्चुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकविटचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसविश्रत्वं सुरामिश्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ।।८९।। तथा
अपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः ।
वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः ॥९०।। प्रदत्तसर्वस्वादपि महाधनावस्थायाम् , पुण्यक्षयात् क्षीणसम्पदः कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद् ग्रहीतुमिच्छन्ति, पण्यं मूल्यं, तत्प्रधाना योषितो वेश्याः, अनेन कृतघ्नत्वं तासामाह । यदाह--
" उपचरिताऽप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः। पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥" [ ] ९० ॥ तथान देवान्न गुरुन्नापि सुहृदो न च बान्धवान् ।
असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते ॥२१॥ १ कश्चित् सचेतनः -च.। कश्चित् सञ्चेतन: -क. ॥
॥३३९||
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org