________________
स्वोपनवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ८९ ॥३३८॥
॥३३८॥
मनस्यन्यहचस्यन्यत् क्रियायामन्यदेव हि ।
यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥८॥ मनसि चित्तेऽन्यत् वचः क्रियाविलक्षणम् , वचसि वचनेऽन्यत् मनः-क्रियाविलक्षणं, क्रियायां चेष्टितेऽन्यत् वाङ्-मनसविसंवादि, यासां साधारणस्त्रीणां वेश्यानाम् , ता विसंवादिप्रेमाणः कथं सुखस्य विश्वासैकनिबन्धनस्य हेतवः । यदाह
" अन्यस्मै दत्तसङकेता याचतेऽन्यं स्तुते परम् ।
अन्यश्चित्ते परः पावें गणिकानामहो नरः॥" [ ] ८८॥ तथा
मांसवित्रं सुरामिश्रमनेकविटचुम्बितम् ।
को वेश्यावदनं चुम्वेदुच्छिष्टमिव भोजनम् ॥८९॥ मांसेन जल-स्थल खचारिजीवजाङ्गलेन विश्रमामगन्धि, मांसादित्वाद्वेश्यानाम् । सुरया काष्ठपिष्टादिमय्या मदि१ वचःक्रिय योर्विल' मु.॥ १ मनःक्रिययोबिल मु.॥ ३ नसोविसं शां. मु.॥ ४ खचरादिजीव ख. च.॥
Jain Education Inte
For Private & Personal Use Only
T
ww.jainelibrary.org