________________
पुत्रं तनयम्, चुलनीव ब्रह्मदत्तम् । यदाह
"माया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि ।
पुत्तस्स कुणइ बसणं चुलणी जह बंभदत्तस्स ।।" [ उपदेशमाला गा० १४५ ] पितरं जनकं, भ्रातरं सोदरम् , जीवयशा इव जरासन्धं कालादींश्च भ्रातृन् ॥८६॥
भवस्य बीजं नरकद्वारमार्गस्य दीपिका ।
शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥८॥ भवस्य संसोरस्याङकुरस्येव बीजं तत्कारणत्वात संसारस्य, नरकद्वारं नरकप्रवेशः, तत्र यो मार्गः पन्थास्तत्र दीपिकेव दीपिका तत्प्रकाशकत्वात् , शुचां शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात् , कलेः कलहस्य तरोरिख मूलं पादो वृद्धिहेतुत्वात, दुःखानां शारीर-मानसानां लवणादीनामिव खानिराकरस्तत्समुत्थत्वात् दुःखाना, काऽसौ ? अङ्गना । एवं तावद्यतिधर्मानुरक्तं गृहस्थं प्रति सामान्येन मैथुनदोषाः स्त्रीदोषाश्वोक्ताः ॥८७||
सम्प्रति स्वदारसन्तुष्टान् गृहस्थानधिकृत्य साधारणस्त्रीदोषाः श्लोकपश्चकेनोच्यन्ते१ माता निजकमतिविकल्पितेऽर्थेऽपर्यमाणे । पुत्रस्य करोति व्यसनं चुलनी यथा ब्रह्मदत्तस्य ॥ २ 'सिन्धुं -खं.॥
For Private & Personal Use Only
॥३३७॥
Jain Education Inter
!
ww.jainelibrary.org