________________
स्वोपज्ञवृत्तिविभूषित योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ८६
॥३३६॥
प्राप्तुं पारमपारस्य पारावारस्य पार्यते ।
स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥८५॥ पारावारस्य समुद्रस्य अपारस्यादृष्टपारस्य पारं परतीरं प्राप्तुं पार्यते शक्यते, न पुनः स्त्रीणां प्रकृतिवक्राणां स्वभावकुटिलचरित्राणां दुश्चरित्रस्य दुष्टवेष्टितस्य पारं पर्यन्तः प्राप्तुं पार्यत इति ॥८५॥ दुश्चरित्रमेवाह
नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् ।
आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥८६।। नितम्मिन्य इति यौवनोन्माददर्शनार्थम् । अत एव स्त्रीति नोक्तम् । दुर्वृत्ता दुष्टशीलाः, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवाऽकार्येऽल्पे प्रयोजने, नोऽल्पार्थत्वात् , प्राणसंशये प्राणसन्देहे, उपलक्षणं चैतत् प्राणनाशेऽपि, आरोपयन्ति आरोहयन्ति । कमित्याह-पतिं भर्तारम् , सूर्यकान्तेव प्रदेशिराजम् । यदाह
" भज्जा वि इन्दियविगारदोसनडिया करेइ पइपावम् ।
जह सो पएसिराया मरियकताइ तह वहिओ।" [ उपदेशमाला गा० १४८ ] १ पार" खं, ॥ २ चारि खं.॥ ३ प्राप्तुं पार्यते -नास्ति शां. ॥ ४ भार्यापि इन्द्रियविकारदोषनाटिता करोति पतिपापम् । यथा स प्रदेशिराजः सूर्यकान्तया तथा घधितः ।। ५ कताए -शां. ख.॥
Jain Education Intei
For Private & Personal Use Only
MMw.jainelibrary.org