SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 5 सतामपि हि वामभूर्ददाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥३॥ सतामपि हि महात्मनामपि वामभ्रविरचितलोचनविकारा हृदये पदं ददाना स्मृतिमात्रेणापि सन्निधापिता, अमिरामं रमणीयं गुणग्रामं गुणसमूहं निर्वासयति उद्वासयति । श्लेषच्छाया चेयम्-यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोद्वासयति एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्रामं सतामेव हृदये पादं दचा वामभ्रनिसियति ॥८३॥ हृदयसन्निधापनमपि स्त्रीणां बहुदोपत्वाद् गुणहानिहेतुः, किं पुना रमणमित्येतदेवाह वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा यासां तासु रमेत कः ॥४॥ वञ्चकत्वं मायाशीलता. नृशंसत्वं क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुःस्वभावता उपस्थसंयमाभावो वा, इत्येते नैसर्गिकाः स्वाभाविका दोषा न त्वौपाधिकाः, तासु को रमेत ॥८४॥ न चेयन्त एव दोषाः, किन्त्वपरिसंख्याता इत्याह१ ददानः प्रवररक्षि च॥ २ मुच्छाद खं.॥ ३ पुनः समारमण खं.॥ ॥३३॥ Jain Education Int a l For Private & Personal use only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy