________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ३३४॥
Jain Education Inten
स्त्री सम्भोगेन यः कामज्वरं प्रतिचिकीर्षति ।
स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ ॥
प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थः - नायं कामज्वरस्य प्रतीकारोऽनुगुणः, अपि तु वृद्धिहेतुः, न हि हुताशे घृताहुतिप्रक्षेपस्तच्छान्त्यै भवति किन्तु तद्वृद्धयै । बाह्या अप्याहु:" न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्र्मेव भूय एवाभिवर्द्धते ।। " [महाभारते ] किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावना - प्रतिपक्षसेवा-धर्मशास्त्रश्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन १ ॥ ८१ ॥
एतदेवाह
-
वरं ज्वलदयः स्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामा जघन सेवनम् ||८२||
अयमर्थः - भवतु कामज्वरोपशम हेतु मैथुनं परं नरकहेतुत्वान्न प्रशस्यम् ||८२||
अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह
१ किं च-ग. ड. ॥
२ दयस्त' - शां. मु. ॥
For Private & Personal Use Only
HOOOOOO00000:00HOOD
द्वितीय: प्रकाश:
श्लोकः ८२
॥३३४||
5
10
w.jainelibrary.org