________________
॥३३३॥
जन्तुसद्भावं वात्स्यायनोऽप्याहवात्स्यायनः कामशास्त्रकारः । अनेन च वात्स्यायनसंवादाधीनमस्य प्रामाण्यमिति नोच्यते, न हि जैन शासनमन्यसंवादाधीनप्रामाण्यं, किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापहनुत इत्युच्यते । वात्स्यायनश्लोको यथा
"रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः ।।
जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम् ।।८०॥" . रक्तजा रक्तोद्भवाः, कृमयो जन्तुविशेषाः, सूक्ष्मा अप्रत्यक्षाः, मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयोऽधिशक्तयश्च, तथाविधां मृदुमध्याधिमात्रशक्त्यनुरूपाम् , मृदुशक्तयो मृवी मध्यशक्तयो मध्याम् , अधिकशक्तयोऽधिकां कण्डूति कण्डू जन्मवर्मसु योनिषु जनयन्ति ॥८॥
कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्यते तं प्रत्याह१ सम्प्रति तु कामशास्त्रटीकायामयं श्लोक इत्थमुपलभ्यते" सम्बाधकस्य कृमिजुष्टत्वात् तत्र निसर्गसिद्धा कण्डूतिः। तथा चोक्तम्-" रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग
शक्तयः। स्मरसमसु कण्डूति जनयन्ति यथाबलम् ।।" सा त्वस्या: पुरुषेणापनीयते ।" इति कामशानस्य यशोधरकृतायां जयमंगलाटीकायां प्रथमेऽध्याये द्वितीयेऽधिकरणे ॥ २ अप्रेक्षा: खं.॥ ३ऽधिकश-क. ख. ग. छ.॥ ४ अधिश-च.॥
॥३३३॥
Jain Education Intel
For Private & Personal use only
R
w.jainelibrary.org