________________
स्वोपवृत्तिविभूषितं योगशास्त्रम् ॥३३२॥
द्वितीयः प्रकाश: श्लोकः ७९ ॥३३२॥
मैथुनस्य परिणामदारुणत्वमाह___कम्पः स्वेदः श्रमो मूर्छा भ्रमिानिर्बलक्षयः ।
राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥७॥ कम्पो वेपथुः, स्वेदो धर्मः, श्रमः वलमः, मूर्छा मोहः, भ्रमिभ्रमः, ग्लानिरङ्गसादः, बलक्षयः शक्तिनाशः, राजयक्ष्मा क्षयरोगः, स आदिर्येषां कास-श्वासादीनां रोगाणां ते तथा मैथुनोत्थिता मैथुनप्रभवाः ॥७८॥ अहिंसापरिवारत्वाच्छेपव्रतानां मैथुने अहिंसाया एवाभावमाह
योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः ।
पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥७९॥ योनिः प्रसवमार्गः, सैव यत्राकारत्वाद्यन्त्रं, तत्र समुत्पन्नाः संमूर्छनेनोत्पन्नाः, ते च न चक्षुर्याद्या इत्याह
सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः पीड्यमाना मृद्यमानाः पुंध्वजेनेति शेषः, रूतनालिकायां तप्तायःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति यत्र मैथुने तन्मैथुनं त्यजेत् ॥७९॥
योनौ जन्तुसद्भावं संवादेन द्रढयति१ ते नैव चक्षु ख. ॥ २ मजन्तु खः ।।
ककककककककककककककककककककककककककक
Jain Education Intel
För Private & Personal Use Only
w.jainelibrary.org