________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रस्तावना ॥ ३२ ॥
॥
३२
॥
___तृतीये प्रकाशे त्रयाणां गुणव्रतानां चतुर्णा शिक्षाव्रतानां च प्रासङ्गिककथाभिः सह स्वरूपं दर्शितम् । गुणव्रतेषु भोगोपभोगविरमणव्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं प्रदर्शितम् । द्वादशानां व्रतानामतिचारा विस्तरेण वर्णिताः । भोगोपभोगव्रतातिचारप्रसङ्गे पश्चदश कर्मादानानि प्रदर्शितानि । महाश्रावकस्वरूपं सप्तक्षेत्रीस्वरूपं श्रावकाणां दिनचर्यावर्णनप्रसङ्गे 'ईपिथिकी-नमुत्थुणं 'प्रभृतिस्त्राणामर्थः गुरुवन्दन-देववन्दन-गुर्वाशातनाकायोत्सर्ग-प्रत्याख्यान-श्राद्धप्रतिमा-समाधिमरणादीनां स्वरूपमित्यादयोऽनेके विषया सविस्तरं विवेचिताः ।
चतुर्थे प्रकाशे आत्मनो रत्नत्रयेण सहैक्यम् , आत्मज्ञानस्य मोक्षोपायत्वम् , आत्मज्ञानावाप्तये कषायइन्द्रियजयस्य आवश्यकत्वम् , इन्द्रियजयार्थ मनोविजयस्य आवश्यकत्वाद् मनःशुद्धरुपायः, राग-द्वेषस्वरूपम् , तञ्जयोपायः, द्वादशभावनास्वरूपं, ध्यानसिद्धयै मैव्यादिभावनानां स्वरूपं योगासनानां च स्वरूपमित्यादि वर्णितम् ।
__पश्चमे प्रकाशे प्राणायामस्वरूपम् , प्राणायामभेदाः, तत्फलम् , ध्यान-धारणा-भौमादिमण्डल-वायुप्रभृतिस्वरूपम् , विविधप्रकारैः काल( मृत्यु )ज्ञानोपायाः, परकायप्रवेशविद्या इत्यादि वर्णितम् । ___षष्ठे प्रकाशे परपुरप्रवेशस्य दुःसाधत्वमपारमार्थिकत्वं च, प्राणायामस्य ध्यानसिद्धावनुपयोगित्वम् , चित्तस्थैर्योपाय:, प्रत्याहारस्वरूपमित्याघभिहितम् ।
Jain Education Inte
:
For Private & Personal Use Only
w
ww.jainelibrary.org