________________
॥ ३१ ॥
Jain Education Inte
मलकर
प्रायः समग्रमपि योगशास्त्रमनुष्टुप् छन्दोभिर्निबद्धम् । द्वादशसु प्रकाशेषु यथाक्रमं ५६, ११५, १५६, १३६, २७३, ८, २८, ८१, १६, २४, ६१, ५५ श्लोकाः । सर्वेऽपि सम्भूय १००९ श्लोकाः । ' द्वात्रिंशतामक्षराणामेकः श्लोकः' इति गणनया १२००० श्लोकपरिमिता प्राधान्येन गद्यनित्रद्धा अस्य स्वोपज्ञा वृत्तिः । वृत्तौ तत्तत्प्रसङ्गानुरूपाः पद्यनिबद्धा बह्वयः कथा अपि तत्र तत्र सन्ति । कथागता बहवः श्लोकाः स्वरचिते त्रिषष्टिशलाका पुरुषचरित्रेऽपि गृहीता ग्रन्थकृता, आगमादिशास्त्राणां प्रभूतानां च प्राचीनग्रन्थानां दोहनमत्र ग्रन्थकता विहितम्, आचार्यश्रीहरिभद्रसूरिप्रभृतिविरचितानां ग्रन्थानामपि महती छाया तत्र तत्र प्रसङ्गे दृश्यते एतच यथासम्भवं टिप्पणेषु सूचितमस्माभिः ।
योगशास्त्रस्य विषय विस्तरेण विषयानुक्रमे द्रष्टव्यः । संक्षेपतस्तु द्वादशानामपि प्रकाशानामयं विषय:प्रथमे प्रकाशे मङ्गलपूर्वकं स्तुतिगर्भितमहावीरचरितं योगस्य स्वरूपं फलं माहात्म्यं च वर्णितं सदृष्टान्तम् । ततः सम्यग्ज्ञान-दर्शन- चारित्रस्वरूपं सर्वविरतिचारित्रे च मूलोत्तरगुणस्वरूपं प्रदर्शितम् | मार्गानुसारिणो गुणानां विस्तरेण वर्णनमन्ते विहितम् ।
द्वितीयेप्रकाशे सम्यक्त्व - मिध्यात्वयोः स्वरूपं पञ्चाणुव्रतस्वरूपं च सविस्तरं प्रासङ्गिककथासहितं वर्णितम् ।
For Private & Personal Use Only
॥ ३१ ॥
www.jainelibrary.org