SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् धर्मप्रवर्तनं विहितम् , संघतीर्थयात्रा-प्रभुप्रतिष्ठादीनि अनेकानि धर्मकार्याणि विहितानि । एवमनेकानि स्वपरोपकारीणि कार्याणि विधाय अन्ते च योगविधिना प्राणान् विहाय संवत् १२२९ वर्षे स्वर्धामालंचक्रुराचार्यभगवन्तः श्रीहेमचन्द्रमरिपादाः । __कुमारपालनृपतेस्त्विदं जीवनवृत्तं संक्षेपतः-[सिद्धपुरतः क्रोशद्वये, अणहिलपुग्पत्तनात्तु क्रोशाष्टके स्थितायां] दधिस्थल्या ('देथली' ग्रामे) त्रिभुवनपालाभिधस्य राज्ञः कश्मीरदेव्यभिधाया राज्याः कुक्षितः विक्रमसंवत् ११४९ मध्ये कुमारपालस्य जन्म । वि. सं. ११९९ वर्षे मार्गशीर्षकृष्णचतुर्थ्यां रविवासरे ' अणहिलपुर 'पत्तने राज्याभिषेकः । ततो दिग्विजयेन अष्टादशदेशाधिपतित्वम् । गुरुश्रीहेमचन्द्रसूरीणां परिचयात् सदुपदेशाच्च सद्धर्मावाप्तिः । वि. सं. १२१६ वर्षे सङ्घसमक्षं श्रीहेमचन्द्रमरीणां सन्निधौ सम्यक्त्वमूलद्वादशव्रतस्वीकारः । परमाईतैरेभिविविधैः प्रकारैरपूर्वमहिंसाधर्मप्रवर्तनम्-अमारिप्रवर्तनं स्वराज्ये परराज्येषु च विहितम् । अद्भुतानि जिनायतनानि निर्मापितानि, जिनप्रतिमाः प्रतिष्ठापिताः, सङ्घपतीभूय सङ्घन सह तीर्थयात्रा विहिता, सप्तापि व्यसनानि स्वदेशानिर्वासितानि, इत्यादीनि विविधानि अद्भुतानि धर्मकृत्यानि विधाय वि. सं १२३० वर्षे स्वर्ग जग्मुः महर्षिकल्पाः श्रीकुमारपालमहीपालाः । चेतश्चमत्कृतिविधायकमेतदीयं पुण्यचरित्रं विस्तरतः कुमारपालमहाकाव्यादिग्रन्थेभ्योऽवसेयम् । Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy