SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ [ योगशास्त्रे ] श्री हेमचन्द्रसूरयः । सर्वमेतदविरोधि परमार्थतः । " यम-नियमा-ऽऽसन-प्राणायाम-प्रत्याहारधारणा-ध्यान-समाधयोऽष्टावङ्गानि" [ पातञ्जलयोगदर्शने २२२९ ] इति पतञ्जल्यभिमतस्यापि ज्ञान-दर्शनचारित्रेषु यथायोगमन्तर्भावोऽस्मिन् ग्रन्थे योगशास्त्रे तत्र तत्र विहितः शास्त्रकृता । जैन-बौद्ध-वैदिकशास्त्रेभ्यः प्रभूतानि वचास्यपि वृत्तौ तत्र तत्रोद्धृतानि । शास्त्रकृतां श्री हेमचन्द्रमरिपादानां जीवनवृत्तं प्रभावकचरित्र-कुमारपालमहाकाव्यादिग्रन्थेषु प्रबन्धेषु च सिद्धं चेदम् । इह तु अतिसंक्षेपेण किश्चिदेवाभिधीयते-गुर्जरदेशे धंधूकानगरे विक्रमसंवत् ११४५ वर्षे कार्तिक्यां पूर्णिमायां शनिवासरे मोढान्वयस्य चाचिगश्रेष्ठिनः पाहिनीनाम्न्या धर्मपल्याः कृक्षितो जाता इमे महापुरुषाः । चंगदेव इति तेषां माता-पितृकृतं नाम । पश्चवर्षदेशीया एवेमे बाल्यवयसि श्रीप्रद्युम्नसूरिशिष्याणां श्रीदेवचन्द्रसूविराणामन्तिके संवत् ११५० वर्षे माघशुक्लचतुर्दश्यां शनिवासरे प्रवज्यां गृहीतवन्तः, तदा च गुरुभिः सोमचन्द्र इति नाम प्रदत्तम् । विविधशास्त्रपारदृश्वभ्योऽप्रतिमप्रातभावग्यो युगप्रधानेभ्य एभ्यो गुरुभिः संवत् ११६६ वर्षे वैशाखशुक्लतृतीयादिने आचार्यपदं प्रदत्तम् , हेमचन्द्र इति च नाम दत्तम् , तत: प्रभृति तेनैव नाम्ना ते प्रसिद्धाः । व्याकरण-काव्या-ऽलङ्कार-कोष-तर्का-ऽध्यात्मादिविषयका अनेके विश्वप्रसिद्धा ग्रन्थास्तैर्विरचिताः, राजानः प्रतियोधिताः, कुमारपालभूपतिद्वारा अपूर्वमहिंसा Jain Education Intel For Private & Personal Use Only w ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy