SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ २८ ॥ Jain Education Inter 4 'योगादेव अभ्युदय - निःश्रेयससिद्धिस्त्रिविधतापोपशान्तिश्च' इति योगोपासनारसिकेन दृष्टविविधयोगशास्त्रेण कुमारपाल भूपालेन सम्यग्योगरहस्य जिज्ञासया प्रार्थितैर्योगीश्वरैः श्री हेमचन्द्रसूरिभिर्द्वादशभिः प्रकाशैः प्रथमभूमिकात आरभ्य चरमभूमिकापर्यन्तं सर्वयोगाङ्गप्रकाशकम् अध्यात्मोपनिषद्रूपं योगशास्त्राख्यं महाशास्त्रं प्रणीतम् । अतिविस्तृतमस्य विवरणमपि तत्रभवद्भिस्तैरेव विरचितम् । 46 “ योगश्चित्तवृत्तिनिरोधः ” इति [ पातञ्जलयोगदर्शने ११२ ] महर्षिः पतञ्जलिः' । “संयोगं योगमित्याहुजीवात्म-परमात्मनोः " इति चान्ये । मोक्षेण योजनाद् योगः " इति [ योगबिन्दौ ] श्री हरिभद्रसूरयः । " चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान - श्रद्धान- चारित्ररूपं रत्नत्रयं च सः ॥ १५ ॥ इति || " " समाधिमेव च महर्षयो योगं व्यपदिशन्ति । यदाहुः योगियाज्ञवल्क्याः समाधिः समतावस्था जीवात्मपरमात्मनोः । संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ॥ इति ॥ अत एव स्कन्धादिषु - यत् समत्वं द्वयोरत्र जीवात्मपरमात्मनोः । समस्तसर्वसंकल्पः समाधिरभिधीयते ॥ १ ॥ परमात्मात्मनोर्योऽयमविभागः परन्तप । स एव तु परो योगः समासात् कथितस्तव ॥ २ ॥ इत्यादिषु वाक्येषु योग- समाध्योः समानलक्षणत्वेन निर्देशः संगच्छते " इति स्वामिबलरामलिखितायां योगभाष्यभूमिकायाम् ॥ For Private & Personal Use Only प्रस्तावना ।। २८ ।। www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy