SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ॥३२९॥ स्तेयनिवृत्तानां फलं श्लोकद्वयेनाह परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥७४॥ परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसां निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसां तेषामन्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः स्वयमेव न तु परप्रेरणया व्यवसायेन वा। स्वयंवरा इत्युपमानगर्भम् । स्वयंवरा इव कन्याः ॥७४॥ तथा अनर्था दृरतो यान्ति साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥७५॥ अनर्था विपदः दूरतो यान्त्यासन्ना अपि न भवन्ति, साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्तते प्रसरति, एतावदैहिकं फलम् ; स्वर्गसौख्यानीति तु पारलौकिकम् , अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । अत्रान्तरश्लोकाःवरं वह्निशिखा पीता सर्पास्य चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥१॥ १ वहिः शिखाः पीताः खं. ॥ ॥३२९॥ Jain Education Inten For Private & Personal Use Only jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy