________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ७२ ||३२८||
॥३२८॥
परमार्थ कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुर्भगवत्पार्वे रोहिणेयः समाययौ ॥१०७॥ ततः श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्वे श्रीवीरपादयोः ॥१०८।। ततश्चतुर्थादारभ्य षण्मासान् यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्मनिर्मूलनाय सः ॥१०९॥ तपोभिः कृशितः कृत्वा भावसंलेखनां च सः। श्रीवीरमापृच्छय गिरौ पादपोपगमं व्यधात् ॥११०॥ शुभध्यानः स्मरन् पश्चपरमेष्ठिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रोहिणेयो महामुनिः ॥१११॥
रोहिणेय इव चौर्यनिवृत्तः स्वर्गलोकमचिरादुपयाति । तत् सुधीन विदधीत कथञ्चिचौरिकामुभयलोकविरुद्धाम् ॥११२॥७२॥
[इति रौहिणेयकथानकम् ] स्तेयस्याऽतिपरिहरणीयतामाह
दृरे परस्य सर्वस्वमपहर्तुमुपक्रमः ।
उपाददीत नादत्तं तृणमात्रमपि क्वचित् ॥७३।। दूरे आस्तां तावत् परस्य सर्वस्वं निःशेषधनम् अपहर्तुमुपक्रमः प्रारम्भः, अदत्तं स्वामिना तृणमात्रमपि नोपाददीत न गृह्णीयात् , न तदर्थं यत्नं कुर्यादिति यावत् ॥७३॥
१ जग्राह स-च. ड. ॥ २[ ] पतदन्तर्गत: पाठो नास्ति शो, खं. ॥
For Private & Personal Use Only
Jain Education Intel
w.jainelibrary.org