________________
॥३२७॥
एकदानिच्छताऽप्येकं श्रुतं युष्मद्वचो मया। तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ।।९४।। यथाऽहं मरणात् त्रातस्तथा त्रायस्व नाथ माम् । संसारसागरावर्ते निमजन्तं जगत्पते ।।९५।। ततस्तत्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ।।९६।। ततः प्रबुद्धः प्रणमन् गैहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश मां प्रभो ॥९७।। योग्योऽसीति स्वामिनोक्ते ग्रहीष्यामि विभो व्रतम् । परं किञ्चिद्वदिष्यामि श्रेणिकेनेत्युवाच सः ॥९८॥ निर्विकल्पं निर्विशङ्घ स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुगत्मजः ॥९९।। इह देव भवद्भिर्यः श्रुतोऽहं लोकवार्तया। स एष रौहिणेयोऽस्मि भवत्पत्तनमोषकः ॥१०॥ भगवद्वचसेकेन दुर्लक्वथा लचिन्ता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१०१।। अशेषमेतन्मुषितं पत्तनं भवतो मया। नान्वेषणीयः कोऽप्यन्यस्तस्कगे राजभास्कर ॥१०२।। कमपि प्रेषय यथा तल्लोप्नं दर्शयाम्यहम् । करिष्ये सफलं जन्म तत: प्रव्रज्यया निजम् ॥१०३।। अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात् पौरलोकश्च सहाऽगात्तेन दस्युना ॥१०४।। ततो गिरि-णदी-कुअ-श्मशानादिषु तद्धनम् । स्थगितं दर्शयामास सोऽथ श्रेणिकमनवे ॥१०५।।
अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभाना मन्त्रिणां नापरा स्थितिः ॥१०६।। १त्यादिश्यतां प्रभो खं. क. ख. ग. ॥
॥३२७||
Jain Education
a
l
For Private & Personal Use Only
W
w w.jainelibrary.org