________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ७२ ॥३२६॥
गत्वा ततस्तैस्तत् सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः ।।८।। एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिन लञ्चिन्तुम् ॥८२।। अभयः पार्थिवादेशाद्रौहिणेयमथामचत । वश्चयन्ते वञ्चनादःदेक्षा अपि कदाचन ।।८।। ततः सोचिन्तयञ्चौरो धिगादेशं पितुर्मम । बश्चितोऽस्मि चिरं येन भगवद्वचनामृतात् ।।८४।। नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिष्यं यमगोचरम् ।।८५।। अनिच्छयाऽपि हि तदा गृहीतं भगवद्वचः । मम जीवातवे जज्ञे भैषज्यमिव रोगिणः ।।८।। त्यक्त्वाहद्वचनं हा धिक चौरवाचि रतिर्मया। आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता ।।८७।। उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामस्त्यात् सेवितः किं करिष्यति ।।८८।। एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ॥८९॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले। महापोतायते ते गीरायोजनविसर्पिणी ॥१०॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्नेनाप्तमानिना । इयत्कालमहं पित्रा वञ्चितस्तजगद्गुरो ॥११॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूषं कर्णाअलिपुटैः सदा ॥९२॥
अहं तु पापोऽशुश्रूषुर्भगवन् भवतो वचः। पिधाय को हा कष्टभिदं स्थानमलख-यम् ॥१३॥ १ 'द्गुरो: खं. ॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org