________________
॥३२५||
विस्मृतं स्वामिलाभेन सर्वमेतत् प्रसीद नः। देवलोकस्थिति देवः कार्यतामिति तेऽवदन ॥६८॥ स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस न: स्वर्गभोगान् भुव ततः परम् ॥६९।। ततः सोऽचिन्तयदस्युः किमेतत् सत्यमीदृशम् । मां ज्ञातुमभयेनैष प्रपञ्चो रचितोऽथवा । ७०।। ज्ञेयं कथमेतदिति ध्यायता तेन संस्मृतम् । कण्टकोद्धरणकालाकणितं भगवद्वचः ॥७१।। देवस्वरूपं श्रीवीराच्छ्रतं चेत संवदिष्यति । तत सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥७२॥ इति बुद्धथा स तानीक्षाचक्रे क्षितितलस्पृशः । प्रस्वेदमलिनान् म्लानमाल्यानिमिषदीक्षणान् ॥७३॥ तत् सर्वे कपटं ज्ञात्वाऽचिन्तयत् दस्युरुत्तरम् । तेनोचे कथ्यतां देव लोकः सर्वोऽयमुत्सुकः ॥७४|| रोहिणेयस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥७५।। प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधाऽर्चया। विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ।।७६॥ इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस दुश्चरित्रमपि स्वकम् ।।७७॥ रौहिणेयोऽप्युवाचेदं साधुसंसर्गशालिना । कदाचिदप्याचरितं किश्चिन्नाशोभनं मया ॥८॥ व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत् कथ्यतां चौर्य-पारदारिकतादिकम् ॥७९॥
रौहिणेयोऽभ्यधत्तैवं किमेवंविधचेष्टितः । स्वलोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ॥८॥ १ लोभेन शां.॥
॥३२५॥
Jain Education Inter
For Private & Personal Use Only
v.jainelibrary.org