SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोकः ७२ ॥३२॥ ॥३२४॥ श्रियाऽप्सरायमाणाभी रमणीमिरलङ्कृतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमर्कि सः ॥५५।। गन्धर्ववर्गप्रारब्धसङ्गीतकमहोत्सवः । सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥५६॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य देवदृष्ये अधितल्पमशाययत् ।।५७॥ मदे परिणते यावदुदस्थात्तावदेक्षत । सोऽकस्माद्विस्मयकरीमपूर्वां दिव्यसंपदम् ॥५८।। अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जय नन्देत्यादिकमङ्गलम् ।।५९।। अस्मिन् महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किङ्करा वयम् ॥६०॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चादुगर्भमूचे च तैरसौ ॥६॥ जातः सुरः किमस्मीति दध्यौ यावत् स तस्करः । संगीतकार्थं तावत्तैः प्रदत्तः समहस्तकः ॥६२॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः। सहसा भो किमारब्धमेतदेवमभाष्यत ॥६३॥ ततः प्रतिवभाषे तैः प्रतीहार निजप्रभोः। प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् ॥६४॥ सोऽप्युवाच स्वनाथस्य दर्यतां निजकौशलम् । देवलोकसमाचारं कार्यतां किं त्वसाविति ॥६५।। तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ॥६६॥ य इहोत्पद्यते देवः स स्वे सुकृतदुष्कृते । आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥६७॥ १ जगन्नन्दे शां. जयेन्नन्दे ख.॥ २ प्रति शां. मु.॥ ३ स्वक शां. ख.॥ For Private & Personal Use Only P Jain Education Inter w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy