________________
॥३२३॥
तैरुपायैस्ततो धृत्वा बद्ध्वा च स मलिम्लुचः । आनीय नृपतेर्दाण्डपाशिकेन समर्पितः ॥४१॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः॥४२॥ अलोत्रः प्राप्त इन्येष नहि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाऽभयस्ततः ॥४३॥ अथ पप्रच्छ तं राजा क्वत्यः कीदृशजीविकः। कुतो हेतोरिहायातो रौहिणेयः स चासि किम् ॥४४॥ स्वनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥४५।। प्रयोजनवशेनेहायातः संजातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः ॥४६॥ स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलयमई वर्ष प्राणभीमहती हि भीः ॥४७॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम । कैवर्तहस्तवित्रस्तो जाले मत्स्य इवापतम् ॥४८|| ततो निरपराधोऽपि बद्ध्वा चौर इवाधुना। अहमेभिरिहानीतो नीतिसार विचारय ॥४९॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ॥५०॥ सोऽग्रेऽपि ग्राहितो ग्रामः सङ्केतं तेन दस्युना। चौराणामपि केषाश्चिच्चित्रमायतिचिन्तनम् ॥५१॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥५२॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रणिकमरिदम् । अहो सुकृतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥५३॥ अभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्यरत्नखचितं विमानमिव नाकिनाम् ॥५४॥
॥३२३॥
-
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org