SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥३२२।। द्वितीयः प्रकाश: श्लोकः ७२ ॥३२२।। त्वयि शासति देवाऽन्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टश्चेटकैरिव ॥२८॥ बन्धूनामिव तेषां तु गृहीतः पीडया ततः। सकोपाटोपमित्यूचे नृपतिर्दाण्डपाशिकम् ।।२९।। किं चौरीभूय दायादीभूय वा मम वेतनम् । गृह्णासि चौरैर्गृह्यन्ते यदेने त्वदुपेक्षितैः ॥३०॥ सोऽप्यूचे देव कोऽप्येष चौरः पौरान विलुण्टति । रौहिणेयायो धत्तुं दृष्टोऽपि न हि शक्यते ॥३१॥ विद्युदुत्क्षिप्तकरणेनोत्प्लुत्याऽयं प्लवङ्गवत् । गेहाद् गेहं ततो वप्रमुल्लङ्घयति हेलया ॥३२॥ मार्गेण यामस्तन्मार्ग यावत्तावत् स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥३३।। न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥३४॥ नृपेणोल्लासितकभ्रमंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥३५॥ चतुरङ्गचमं सजीकृत्य मुश्च बहिष्पुरात् । यदान्तः प्रविशेचौरः पत्तनं वेष्टयेस्तदा ॥३६।। अन्तश्च त्रासितो विद्युदुत्क्षिप्तकरणेन सः। पतिष्यति बहिः सैन्ये वागुरायां कुरङ्गवत् ॥३७॥ प्रतिभूभिरिवानीतो निजपादैस्ततश्च सः । ग्रहीतव्यो महान् दस्युरप्रमत्तैः पदातिभिः ॥३८|| तथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमू सजां प्रच्छन्नं निर्ममे सुधीः ॥३९॥ तदिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरों रूद्धा वारी गज इवाविशत् ॥४०॥ १ सैन्यवागु खं.॥ २ रोहि ख. । एवमग्रेऽपि । Jain Education Intel For Private & Personal Use Only S w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy