SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ॥३२१ ।। Jain Education Inter तदा च नगर-ग्रामा -ऽऽकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ||१५|| सुरैः संचार्य्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाद् वीरश्वरमतीर्थकृत् ||१६|| वैमानिकैज्र्ज्योतिषिकैर्व्यन्तरैरसुरैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ||१७|| आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् || १८ || तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १९ ॥ एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । श्रृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ||२०|| न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णौ विधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥२१॥ एवमन्वहमप्यस्य याता ऽऽयातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः || २२ ॥ औत्सुक्यगमनाद् गाढमनं पादे स कण्टकम् । अनुद्धृत्य समुद्धतुं न शशाक क्रमात् क्रमम् ||२३|| नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात् करम् । कर्षन् कण्टकमश्रौषीदिति विश्वगुरोर्गिरम् ||२४|| महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदा नीरजोऽङ्गाः सुरा इति ||२५|| बहुश्रुतमिदं धि धिगित्यशूद्भुतकण्टकः । विधाय पाणिना कर्ण तथैवापससार सः ॥२६॥ अथाऽन्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ||२७|| १ –ख. ग. च. ड. । व्यन्तरैरसुरैज्योतिषिकैर्वैमा निकैरपि मु. ॥ ૮૧ For Private & Personal Use Only कलकल 10 ॥३२१|| ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy