SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥३२०॥ द्वितीयः प्रकाश: श्लोकः ७२ ॥३२०॥ इतश्च तस्मिन्नगरे वैभागिरिकन्दरे। चौरो लोहखुराख्योऽभूद्राद्रो रस इवाङ्गवान् ॥३॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥४॥ आददानस्ततो द्रव्यं भुनानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ।।५।। चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिन चापरा । अपास्य व्यं क्रव्यादा भक्ष्यस्तृप्यन्ति नापरः ॥६॥ तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ॥७॥ स्वमृत्युसमये प्राप्ते पित्राऽऽहूयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ।।८।। अवश्यमेव कर्तव्यमादिष्टं भवतां मया। कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः ॥९॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥१०॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रीषीस्तस्य भाषितम् ॥११॥ अन्यत्त स्वेच्छया वत्स कुर्यास्त्वमनियन्त्रितः। उपदिश्येति पश्चत्वं प्राप लोहखुरस्ततः ॥१२॥ मृतकार्य पितुः कृत्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥१३॥ पालयन पितरादेशं जीवितव्यमिवात्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् ॥१४॥ १ इत आरभ्य १११ श्लोकपर्यन्तं समग्रं रौहिणेयचरित्रं त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वण्येकादशे सगै समानप्रायं विद्यते ॥ २ रौहिणेयाभि खं, । Jain Education Intel For Private & Personal Use Only Tww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy