________________
॥३१९॥
दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः। अयं स एव राजेति निश्चिक्ये मण्डिको हृदि ॥२९१।। गृह्यतां मत्स्वसा देव देवकीयैव सा किल । मदीयमन्यदप्येवमवोचत स पार्थिवम् ।।२९२।। तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणः ॥२९३।। महामात्यपदे चक्रे तस्करं तं नरेश्वरः । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ।।२९४॥ तस्माद् भूषणवस्त्रादि तद्भगिन्यैव भूपतिः। नित्यमानाययदहो धू” धूतैरधृष्यत ॥२९५।। बहु यावत् समाकृष्टं द्रव्यं तावन्नृपेण सा। अभाषि वित्तं त्वद्वन्धोः कियदद्यापि तिष्ठति ॥२९६।। वित्तमेतावदेवासीदस्य दस्योः स्वसाऽपि हि । एवं न्यवेदयद्राज्ञो गोप्यं प्रियतमे न हि ॥२९७।। विडम्बनाभिर्बह्वीमिर्मण्डिकं चण्डशासनः । निजग्राह ततो राजा पापानां कुशलं कियत् ॥२९८।। चौर्यात् श्वशुर्यमपि विक्रमराजराज आनीय मण्डिकमखण्डनयो जघान । स्तैन्यं न तेन विदधीन सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ॥२९९।।
[इति मूलदेव-मण्डिकयोः कथानकम् ] आसीद्राजगृहे सम्पजितामरपुरे पुरे । पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥१॥ राज्ञस्तस्य च तनयो नयविक्रमभाजनम् । नाम्नाऽभयकुमारोऽभूत् प्रद्युम्नः श्रीपतेरिव ।।२।। १ रुक्मिणीम् शां. मु.॥ २ रघृष्यत खं.॥ [ ] पतदन्तर्गत: पाठो नास्ति शां. खं. ।।
॥३१९॥
Jain Education in
For Private & Personal use only
C
ww.jainelibrary.org