SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ॥३१७॥ एहि कर्पटिकाद्य त्वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगज्ञताम् ॥२६४॥ तमन्वचालीत् सोऽर्थेच्छुः पत्तिवत् पृथिवीपतिः। ममर्द गर्दभस्यापि पादौ कार्याज्जनार्दनः ॥२६५॥ अजानानः स राजानं पार्वे मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ।।२६६॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात् सुधामिव ॥२६७ अज्ञो राज्ञा समस्तं तद्वाहयामास तस्करः। उदरं मर्दयामास शाकिन्येव स मूढधीः ॥२६॥ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धूत हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥२६९॥ जीर्णोद्यानं ततो गत्वा गुहामुद्घाट्य सोऽविशत् । निनाय तत्र भूपं च च्छगणागेपितालिवत् ॥२७०।। आसीन्नागकुमारीव कुमारी तत्र तत्स्वसा। नवयौवनलावण्यपुण्यावयवशालिनी ॥२७१।। क्षालयाऽस्याऽतिथेः पादावित्यादिष्टा स्वबन्धुना। सोपकूपं ततो भूपमुपावेशयदासने ॥२७२।। प्रक्षालयन्ती तत्पादकमले कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गमुर्दक्षत ॥२७३॥ अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साऽब्रवीदिति भूपतिम् ॥२७४|| पादप्रक्षालनव्याजात् कूपेऽस्मिन्नपरे नराः । अपात्यन्त महाभाग तस्कराणां कुतः कृपा ॥२७५।। क्षेपस्यामि नेह कूपे त्वां त्वत्प्रभाववशीकृता । महतामनुभावो हि वशीकरणमद्भुतम् ॥२७॥ १ दर्शयामास मु.॥ २ जनाः च. ड.॥ ॥३१७|| Jain Education Intem For Private & Personal use only Gwwjainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy