________________
स्वोपज्ञवृत्तिविभूषितं
द्वितीयः प्रकाशः श्लोकः ७२ ॥३१६॥
योगशास्त्रम्
॥३१६॥
अन्येचुर्दुःखविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिजो मूलदेवमेवं व्यजिज्ञपन् ॥२५१॥ जाग्रत्यपि प्रजाखातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोषिभिः ॥२५२॥ कोला इव चिरं चौराः पुरेऽस्मिन् मन्दिराणि नः । प्रतिक्षपं खनन्त्युच्चैनरिक्षा रक्षितुं क्षमाः ॥२५३।। अदृश्यमानाः केनापि कृतसिद्धासना इव । भ्राम्यन्ति चौराः स्वैरं नो गृहेषु स्वगृहेष्विव ॥२५४॥ अचिरान्निग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायैवं वणिजो विससर्ज तान् ॥२५५॥ आदिक्षनगराध्यक्षं साक्षेपं क्षमापतिस्ततः । अन्विष्य तस्करान् सर्वान् गृहाण निगृहाण च ॥२५६।। अथोवाच पुराध्यक्षः स्वामिन्नेकोऽस्ति तस्करः। असौ न शक्यते धत्तुं दृष्टनष्टः पिशाचवत् ॥२५७॥ जातामर्षस्ततो राजा महौजा निर्ययौ निशि। नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥२५८॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहेः पदमिवाम्भसि ॥२५९॥ स सर्व नगरं भ्रान्तः श्रान्तः सुध्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामिव केसरी ॥२६०॥ निशाचर इवाकस्मानिशाचरणदारुणः । तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥२६१।। कोऽत्रेति व्याहरन्नुमलिम्लुचपतिस्ततः । रुष्टः सुप्तमिव व्यालं पदा नृपमघट्टयत् ॥२६२।।
चेष्टां स्थानं च चित्तं च जिज्ञासुस्तस्य भूपतिः। ऊचे कर्पटिकोऽस्मीति क्व क्व निष्णा न तादृशाः ॥२६३॥ १ निरातकाः पुरे ख. । विभो चौरा: पुरे ग. च. ॥ २ अन्विक्ष शां.' ३ दृष्टः नष्टः खं. ४ वित्तं शां. मु.॥
For Private & Personal Use Only
R
w
Jain Education Intel
.jainelibrary.org