________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥३१४॥
Jain Education Inte
लक्ष्मी महच्चपिशुनैर्मणि-मौक्तिक विद्रुमैः । भृत्वा विशालं स स्थालं महीनाथमुपास्थित || २२५ ॥ अचलोऽयमिति क्षिप्रमुपलक्षितवान् नृपः । दृष्ट्वा प्राग्जन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि || २२६ || राजानं मूलदेवोऽयमित्यज्ञासीत्तु नाचलः । आत्तवेषं नटमपि स्थूलप्रज्ञा न जानते ||२२७|| कुतस्त्वमिति राज्ञोक्तः पारसादित्युवाच सः । ययाचे पञ्चकुलं च भाण्डालोकनकर्मणे || २२८|| कौतुकात् स्वयमेष्याम इत्युक्तो भूभुजा स तु । महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥२२९॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मञ्जिष्ठा - पट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ २३०॥ भाण्डं किमिदेवेदं सत्यं वहीति भृभुजा । उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे || २३१ || नृपेण पुनरप्यूचे सम्यग् ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्कचौर्यो यच्छरीरेण निग्रहः || २३२ || अवोचदचलोऽप्येवमस्माभिः कथ्यतेऽन्यथा । पुरतो नापरस्यापि स्वयं देवस्य किं पुनः || २३३ || राजेत्युवाच तर्ह्यस्य श्रेष्ठिनः सत्यभाषिणः । क्रियतामर्द्धदानं च सम्यग्भाण्डं च वीक्ष्यताम् ||२३४|| ततः पञ्चकुलेनांहिप्रहाराद्वंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमशङ्कयत || २३५ ।। जाताशङ्गैस्ततो राजपुंभिर्विभिदिरे क्षणात् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः || २३६ ॥ तैर्यथा शङ्कितं भाण्डवित्तशाठ्यं तथाऽभवत् । परपुरान्तः प्रवेशकारिणो ह्यधिकारिणः || २३७|| १ मुपस्थितः खं । 'मुपास्थितः रोम. ॥ ३ भाण्डं वित्त खं. मु. ॥
२ अन्य वेषं खं. ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
श्लोक ७२
||३१४॥
5
10
www.jainelibrary.org