SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ॥३१३॥ नृपं नत्वा बहिर्गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ॥२१२॥ मूलदेवमपश्यन् स मीतो न्यूनतया तया । भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥२१३॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया। भोज्येनाऽलवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥२१४॥ ततः स देवदत्ताया जितशत्रोश्च भूपतेः। चतुरं प्रेषयमास दूतं प्राभृतसंयुतम् ।।२१५।। गत्वोजयिन्यां दूतोऽपि जितशत्रु व्यजिज्ञपत् । देवतादत्तराज्यश्रीर्मूलदेवो वदत्यदः ॥२१॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥२१७॥ ततोऽवददवन्तीशस्तेनेदं कियदर्थितम् । राज्ञा विक्रमराजेन भेदो राज्येऽपि नास्ति नः ॥२१८।। आकार्य देवदत्तां च जगादोजयिनीपतिः । दिष्टया जाताऽसि भद्रे त्वं चिरात् पूर्णमनोरथा ॥२१९।। राजा जज्ञे मूलदेवो देवतायाः प्रसादतः । त्वामानेतुं च स प्रेषीत् प्रधानपुरुषं निजम् ॥२२०॥ ततस्त्वं तत्र गच्छेति प्रसादाज्जितशत्रुणा । आदिष्टा देवदत्ताऽगाद्वेणातटपुरं क्रमात् ॥२२१।। राजा विक्रमराजोऽपि महोत्सवपुरःसरम् । स्वचेतसीव विपुले स्ववेश्मनि निनाय ताम् ॥२२२॥ जिना मर्चतस्तस्य सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च त्रिवर्गोऽभूदबाधितः ॥२२३।। इतश्च पारसकूलाद् बह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥२२४॥ १ नत्वा ततो गत्वा मु. शां. ॥ ॥३१३॥ Jain Education Intel For Private & Personal Use Only w ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy