________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम् ॥३१२।।
द्वितीयः प्रकाश: श्लोकः ७२ ॥३१२॥
वर्तिष्यन्ते न येऽमुष्य शासने क्षितिशासितः। तानहं निग्रहीष्यामि महीभृत इवाशनिः ॥१९९।। तगिरा विस्मितं भीतं सर्व प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ॥२०॥ ततः स राजा विषयसुखान्यनुभवन् व्यधात् । प्रीतिमुञ्जयिनीशेन मिथः संव्यवहारतः ॥२०१॥ तदानी देवदत्ताऽपि मूलदेव विडम्बनाम् । तादृक्षी प्रेक्ष्य साक्षेपा व्यब्रवीदचलं प्रति ॥२०२॥ किं ज्ञाता द्रव्यदन्धि त्वया कुलगृहिण्यहम् । मुमूर्षों मूर्ख मद्गेहे व्यवाहार्यिदीदृशम् ।।२०३।। त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात् समीपे नृपतेरगात् ॥२०४॥ तया च याचितो राजा स वरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनेत्यवदन्नृपः ॥२०५।। सोचे मां प्रति नाऽऽज्ञाप्यो मलदेवं विना प्रमान । वारणीयोऽचलश्चायमागच्छन् मम वेश्मनि ॥२०६॥ एवमस्त्विति राज्ञो(जो)क्त्वा हेतु: कोत्रेति पृष्टवान् । शशंस माधवी देवदत्ताभ्रसंज्ञया ततः ॥२०७॥ जितशत्रुनृपः कोपाञ्चलितभूलतस्ततः । सार्थवाहं तमाहृय साक्षेपमिदमब्रवीत् ।।२०८॥ मत्पुरीमण्डनावेतौ रत्नभूतावरे त्वया । मुर्खेण धनमत्तेन ग्रावणीव निर्षितौ ।।२०९।। ततोऽमुष्यापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रोक्ते देवदत्ता न्यवास्यत् ॥२१॥ त्वं यद्यप्यनया बातोऽधुना त्राणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधान्नृपः ॥२११।। २ मूर्खवद् गेहे क छ.॥
Jain Education Inter
For Private & Personal Use Only
Jw.jainelibrary.org