SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ॥३१॥ वभाषे मूलदेवोऽपि ताताऽज्ञातकुलस्य मे। कन्यां प्रदास्यसि कथं विचारयसि किं न हि ॥१८५।। उपाध्यायोऽप्युवाचैवं त्वन्या॑ऽपि कुलं गुणाः । ज्ञातास्तत् सर्वथा कन्या ममेयं परिणीयताम् ॥१८॥ तद्वाचा मूलदेवोऽपि कन्यका तामुपायत । कार्यसिद्धर्भविष्यन्त्याः प्रादुर्भूतमिवाननम् ॥१८७।। मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ॥१८८॥ हृष्टस्तत्र वसन् धूर्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्ते पञ्चमेऽहनि ॥१८९।। तदा च नगरे तस्मिन्नग्रेतनमहीपतिः। अत्रो निधनं प्राप निष्पाद इव पादपः ॥१९॥ मन्त्रोक्षिताः पुरीभा-ऽश्व-च्छत्र-भृङ्गार-चामराः। भ्रमुः प्रापुर्न राज्याह दुष्प्रापस्तादृशो जनः ॥१९१॥ ततो बहिः पर्यटन्तो निकषा चम्पकद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ॥१९२।। हयेन हेषितं चक्रे गजेनोजितगजितम । भृङ्गारेण च तस्याऽर्घश्चामराम्यां च वीजनम् ॥१९॥ पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि। शरदभ्रमिवादभ्रतडिद्दण्डमजुम्भत ।।१९४॥ तं चाधिरोहयामास स्वस्कन्धे जयकुअरः। स्वाम्याप्तिमुदितैलोकश्चक्रे जयजयारवः ॥१९५।। पुरं महातूर्यरवैः पूर्यमाणदिगन्तरम् । तत् प्राविशन्मूलदेवो राजराज इबालकाम् ॥१९६।। उत्तीर्णो राजहर्येऽसौ सिंहासनमधिष्ठितः । समन्ततः समायातैः सामन्तैरभ्यषिच्यत ॥१९७।। अथोचे देवता व्योम्नि देवतानां प्रसादतः। अयं विक्रमराजाख्यो राजा जज्ञे कलानिधिः ॥१९८।। ॥३१॥ Jain Education For Private & Personal Use Only Miwww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy