SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥३१०॥ Jain Education Inte एवमस्त्विति देव्यूवे मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये मिक्षित्वा बुभुजे स्वयम् ॥ १७२ ॥ मार्ग क्रामन् क्रमेणासौ प्राप वेणातटं पुरम् । सुष्वाप पान्थशालायां निद्रासुखमवाप च ॥ १७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वममैक्षत । यत् पूर्णमण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ १७४ | aaaaaats कर्पटिकस्तदा । अन्यकर्पटिकानां च प्रबुद्धस्तमचीकथत् ।। १७५ ।। तेषु कर्पटिकेष्वेकः स्वनमेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं सखण्ड घृतमण्डकम् ॥ १७६ || हृष्टः कर्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि श्रृगालस्य महोत्सवः || १७७॥ स्वप्नं नाचीकथत् तेषामज्ञानां धूर्त्तराडू निजम् । मूर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते || १७८ । मण्डकं कटिः प्राप गृहाच्छादनपर्वणि । प्रायेण फलति स्वप्नो विचारस्यानुसारतः ॥ १७९ ॥ धूर्त्तोऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिकं लोकंपूण कर्मापि तादृशाम् ॥ १८० ॥ गृहीत्वा मालिका तस्मात् स पुष्पाणि फलानि च । शुचिर्भूत्वा ययौ वेश्म स्वशास्त्र विपश्चितः ॥ १८९ ॥ मूलदेवस्ततो नत्वा दवा पुष्पफलानि च । उपाध्यायाय तज्ज्ञाय शशंस स्वप्नमात्मनः ॥ १८२ ॥ मुदितः सोऽवदद्विद्वान् वत्स स्वमफलं तव । सुमुहूर्त्ते कथयिष्याम्यद्यास्माकं भवातिथिः || १८३ || मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । परिणाययितुं कन्यामुपाध्याय उपानयत् ॥ १८४॥ १ काटिक' मु.। एवमग्रेऽपि ॥ २ सखण्डं खं । सखण्डु शां. ॥ ३ गृहस्छा (च्छा ) दन खं. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ७२ ॥३१०॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy