SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ॥३०७॥ Jain Education I ततो भाटीविया कारितो देवदत्तया । अभ्यङ्गो वर्त्तनादीनि पर्यङ्कस्थित एव सः ॥ १३३॥ स्वप्यमाने ततस्तस्मिन्नीशे खलिजलादिना । मूलदेवश्चण्ड इव म्रियते स्म समन्ततः ॥ १३४॥ आजुहावाऽचलभटान् कुट्टनी दृष्टिसंज्ञया । निदिदेशाऽचलं चाशु धूर्त्ताकर्षणकर्मणे ||१३५|| कोपापसमाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमित्र कौरवः || १३६ || तं चोवाच नयज्ञोऽसि विद्वानसि सुधीरसि । कर्मणोऽस्यानुरूपोऽय ब्रूहि कस्तेऽस्तु निग्रहः ॥१३७॥ धनाधीनशरीरेयं वेश्या तां चेद् रिरंससे। ग्रामपट्टकवद् भूरिधनेन न किमग्रहीः ॥ १३८ ॥ मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः । विफलीभूतफालस्योदुवाह द्वीपिनस्तुलाम् || १३९| एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ देवादेवं दशां गतः ||४०|| इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया । कृतज्ञोऽस्युपकर्त्तव्यं त्वयाऽपि समये मम ॥ १४१ ॥ मुक्तोऽथ तेन धूर्चेशो वेश्मतो निर्ययौ ततः । तूर्णं तूर्णं परिक्रामन् रणाद् भग्न इव द्विपः ॥ १४२ ॥ गत्वा पुरीपरिसरे सनौ सरसि विस्तृते । शरत्काल इव भेजे तत्क्षणात् क्षालिताम्बरः ॥ १४३॥ अचलस्यापकर्तुं चोपकर्त्तुं च स धूर्त्तराट् । मनोरथरथारूढोऽचलद् वेणातटं प्रति || १४४ || द्वादशयोजनायामां स श्वापदकुलाकुलाम् । दुर्दशायाः प्रियसखीमिव प्राप महाटवीम् || १४५ ।। १ स्नाप्य' शां. | " ज्वल-वल-झल-ग्ला-स्ना-बनू - वम नमोऽनुपसर्गस्य वा " सि० ४ । २ । ३२ ।। २ कामद्रणा खं ॥ ३ वेण्णातटं खं । एवमग्रेऽपि ॥ For Private & Personal Use Only कळकळवळा 5 10 ॥३०७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy