________________
स्वोपज्ञवृत्ति विभूषितं
द्वितीयः प्रकाश: श्लोकः ७२ ॥३०६॥
योगशास्त्रम्
ततस्तया निरातङ्क मूलदेवे प्रवेशिते । आह्वास्त कुट्टन्यचलं कुट्टाकभटवेष्टितम् ॥१२०।। देवदत्ता च सहसा प्रविशन्तं ददर्श तम् । मूलदेवं च खट्वाऽधो न्यधात् पत्रकरण्डवत् ॥१२१॥ तथास्थितं मूलदेवं कुट्टन्या ज्ञापितोऽचलः । पर्यङ्के कृतपयको निषसाद स्मिताननः ॥१२२॥ अवोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्त वयं श्रान्ताः स्नास्यामः प्रगुणीभव ॥१२३॥ देवदत्ताऽब्रवीदेवं विलक्षवितथस्मिता । स्नानयोग्यासने तर्हि स्नातुं पादोऽवधार्यताम् ॥१२४॥ एवमुत्थाप्यमानोऽपि सादरं देवदत्तया। विशेषतोऽभूत् खटवायामचलो निश्चलासनः ॥१२५॥ शशाक धर्तराजोऽपि स्थातुं गन्तुं च नो तदा। प्रायेण विगलन्त्येवास्वस्थे मनसि शक्तयः॥१२६॥ अवोचदचलो देवदत्ते स्वमो मयेक्षितः । पर्यकेऽस्मिन् कृताभ्यङ्गः सचेलः स्नातवानहम् ॥१२७।। स्वप्नं सत्यापयिष्यामि तदर्थमहमागमम् । सत्यीकृतो ह्ययं स्वमः शुभोदाय जायते ॥१२८।। कुट्टन्यवोचदादेशः प्रमाणं जीवितेशितुः । पुत्रि किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥१२९॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । अदृष्यदेवदृष्येयं तूलिका यद्विनाश्यते ॥१३०।। अचलोऽप्यवदद् भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥१३१॥
किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाञ्चलः । लवणेन स कि सीदेद्यस्य रत्नाकरः सखा ।।१३२।। १ यद्विनश्यति मु.॥
Jain Education Inter
For Private & Personal Use Only
14w
.jainelibrary.org